(1) मरीचि के पुत्र कश्यप प्रजापति थे। ब्रह्मदेव की दाहिनी हाथ की बोटे की नली से दक्ष नाम का पुरुष और बाएँ हाथ की बोटे की नली से धरनी नाम की स्त्री जन्मीं। उन दोनों से एक हज़ार-हज़ार महा ऋषि जन्मे। (2) ब्रह्मा के मानस पुत्रों में दूसरे स्थान पर रहने वाले अंगिरस्‍ु को उद्दध्य, बृहस्पति और संवर्त जैसे पुत्र हुए। बृहस्पति देवताओं के आचार्य बने। (3) मैत्रि (अत्रि) नामक मानस पुत्र से अनेक महा मुनि जन्मे। (4) पुलस्त्य नामक ब्रह्मा के मानस पुत्र से राक्षसों का जन्म हुआ। (5) पुलह नामक मानस पुत्र से किन्नर और किमपुरुष वर्ग उत्पन्न हुए। (6) क्रतू नामक मानस पुत्र से पक्षियों की जाति उत्पन्न हुई।

   
    


॥ श्रीः ॥
9.41. अध्यायः 041
Mahabharata - Shalya Parva - Chapter Topics
आर्ष्टिषेणेन पृथूदकतीर्थे तपश्चर्यवा कृत्स्नवेदाधिगमः॥ 1 ॥ विश्वामित्रादीनां तत्तत्तीर्थे तपश्चर्यया ब्राह्मण्याधिगम॥ बलभद्रस्य तत्र स्नानादिपूर्वकं बकाश्रमम्प्रति गमनम्॥ 3 ॥


Mahabharata - Shalya Parva - Chapter Text

जनमेजय उवाच। 9-41-0x(5183)(62515)
आर्ष्टिषेणस्तथा ब्रह्मन्विपुलं तप्तवांस्तपः।
सिन्धुद्वीपः कथं चापि ब्राह्मण्यं लब्धवांस्तदा॥ 9-41-1(62516)
देवापिश्च कथं ब्रह्मन्विश्वामित्रश्च सत्तम।
तन्ममाचक्ष्व भगवन्परं कौतूहलं हि मे॥ 9-41-2(62517)
वैशम्पायन उवाच। 9-41-3x(5184)
पुरा कृतयुगे राजन्नार्ष्टिषेणो द्विजोत्तमः।
वसन्गुरुकुले नित्यं नित्यमध्ययने रतः॥ 9-41-3(62518)
तस्य राजन्गुरुकुले वसतो नित्यमेव च।
समाप्तिं नागमद्विद्या नापि वेदा विशाम्पते॥ 9-41-4(62519)
स निर्विण्णस्ततो राजंस्तपस्तेपे महातपाः।
ततो वै तपसा तेन प्राप्य वेदाननुत्तमान्॥ 9-41-5(62520)
स विद्वान्वेदयुक्तश्च सिद्धश्चाप्यृषिसत्तमः।
तत्र तीर्थे वरान्प्रादात्त्रीनेव सुमहातपाः॥ 9-41-6(62521)
अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः।
आप्लुतो वाजिमेधस्य फलं प्राप्स्यति पुष्कलम्॥ 9-41-7(62522)
अद्यप्रभृति नैवात्र भयं व्यालाद्भविष्यति।
अपि चाल्पेन कालेन फलं प्राप्स्यति पुष्कलम्॥ 9-41-8(62523)
एवमुक्त्वा महातेजा जगाम त्रिदिवं मुनिः।
एवं सिद्वः स भगवानार्ष्टिषेणः प्रतापवान्॥ 9-41-9(62524)
तस्मिन्नेव तदा तीर्थे सिन्धुद्वीपः प्रतापवान्।
देवापिश्च महाराज ब्राह्मण्यं प्रापतुर्महत्॥ 9-41-10(62525)
तथाच कौशिकस्तात तपोनित्यो जितेन्द्रियः।
तपसा वै सुतप्तेन ब्राह्मणत्वमवाप्तवान्॥ 9-41-11(62526)
गाधिर्नाम महानासीत्क्षत्रियः प्रथितो भुवि।
तस्य पुत्रोऽभवद्राजन्विश्वामित्रः प्रतापवान्॥ 9-41-12(62527)
स राजा कौशिकस्तात महायोग्यभवत्किल।
स पुत्रमभिषिच्याथ विश्वामित्रं महातपाः॥ 9-41-13(62528)
देहन्यासे मनश्चक्रे तमूचुः प्रणताः प्रजाः।
न गन्तव्यं महाप्राज्ञ त्राहि चास्मान्महाभयात्॥ 9-41-14(62529)
एवमुक्तः प्रत्युवाच ततो गाधिः प्रजास्ततः।
विश्वस्य जगतो गोप्ता भविष्यति सुतो मम॥ 9-41-15(62530)
इत्युक्त्वा तु ततो गाधिर्विश्वामित्रं निवेश्य च।
जगाम त्रिदिवं राजन्विश्वामित्रोऽभवन्नृपः॥ 9-41-16(62531)
न स शक्नोति पृथिवीं यत्नवानपि रक्षितुम्।
ततः शुश्राव राजा स राक्षसेभ्यो महाभयम्॥ 9-41-17(62532)
निर्ययौ नगराच्चापि चतुरङ्गबलान्वितः।
स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात्॥ 9-41-18(62533)
तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान्बहून्।
ततस्तु भगवान्विप्रो वसिष्ठो श्रममभ्ययात्।
ददृशेऽथ ततः सर्वं भज्यमानं महाव्रनम्॥ 9-41-19(62534)
तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः।
सृजस्व शबरान्घोरानिति स्वां गामुवाच ह॥ 9-41-20(62535)
तथोक्ता साऽसृजद्धेनुः पुरुषान्घोरदर्शनान्।
ते तु तद्बलमासाद्य बभञ्जुः सर्वतोदिशम्॥ 9-41-21(62536)
तच्छ्रुत्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः।
तपः परं मन्यमानस्तपस्येव मनो दधे॥ 9-41-22(62537)
सोऽस्मिंस्तीर्थवरे राजन्सरस्वत्याः समाहितः।
नियमैश्चोपवासैश्च कर्शयन्देहमात्मनः॥ 9-41-23(62538)
जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत्।
तथा स्थण्डिलशायी च ये चान्ये नियमाःपृथक्॥ 9-41-24(62539)
असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे।
न चास्य नियमाद्बुद्धिरपयाति महात्मनः॥ 9-41-25(62540)
ततः परेण यत्नेन तप्त्वा बहुविधं तपः।
तेजसा भास्कराकारो गाधिजः समपद्यत॥ 9-41-26(62541)
तपसा तु तथायुक्तं विश्वामित्रं पितामहः।
अमन्यत महातेजा वरदोऽदर्शयत्तदा॥ 9-41-27(62542)
स तु वव्रे वरं राजन्स्यामहं ब्राह्मणस्त्विति।
तथेति चाब्रवीद्ब्रह्मा सर्वलोकपितामहः॥ 9-41-28(62543)
स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाः।
विचचार महीं कृत्स्नां कृतकामः सुरोपमः॥ 9-41-29(62544)
तस्मिंस्तीर्थवरे रामः प्रदाय विविधं वसु।
पयस्विनीस्तथा धेनूर्यानानि शयनानि च॥ 9-41-30(62545)
अथ वस्त्राण्यलङ्कारं भक्ष्यं पेयं च शोभनम्।
अददन्मुदितो राजन्पूजयित्वा द्विजोत्तमान्॥ 9-41-31(62546)
ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात्।
यत्र तेपे तपस्तीव्रं दाल्भ्यो बक इति श्रुतिः॥ ॥ 9-41-32(62547)

इति श्रीमन्महाभारते शल्यपर्वणि ह्रदप्रवेशपर्वणि एकचत्वारिंशोऽध्यायः॥ 41 ॥


Mahabharat- Hindi (Devanagari) 100000 shlokas

www.sanatanadharm.com - play store app (sanatana dharm)

"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India.